CTET 2023 के 23 जनवरी वाले पेपर में संस्कृत-II खंड विद्यार्थियों की भाषा-ज्ञान, व्याकरणीय समझ और पठन-ग्रहण क्षमता को परखने के लिए तैयार किया गया था। इस खंड में ऐसे प्रश्न शामिल थे जो न केवल मूल संस्कृत धातु, शब्द-रूप और संधियों की जानकारी की जाँच करते हैं, बल्कि प्राचीन साहित्यिक शैली को भी समझने की क्षमता का मूल्यांकन करते हैं।
यह PYP क्विज अभ्यर्थियों को वास्तविक परीक्षा के स्तर और प्रश्नों के पैटर्न को समझने में मदद करता है। संस्कृत-II के सवाल अभ्यर्थी की भाषिक दक्षता, शुद्ध लेखन और शास्त्रीय अभिव्यक्तियों की पहचान का परीक्षण करते हैं। इस क्विज के माध्यम से विद्यार्थी परीक्षा से पहले अपने आत्मविश्वास को मजबूत कर सकते हैं और त्रुटियों को सुधार सकते हैं।
Comprehension: (Que No. 1 - 8)
निर्देशः अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचितमम् उत्तरं चिनुत।
सुविस्तृतसागरस्य सविधे एकः तालवृक्षः विराजते। तालवृक्षाः उच्चैरतीय दीर्घाः। तालवृक्षाणां समूहेन सागरस्य तटः परिपूर्णः दृश्यते। मन्दं मन्दं वायुरपि वाति। जनाः प्रत्यहं समुद्रतटं प्रति आयान्ति। तस्य तटस्य उपभोगं कृत्वा। स्वगृहं गच्छन्ति। समुद्रस्य जलं तालवृक्षाणां मूलभागं कदाचित् स्पृशति। अतः प्रतिवर्ष तालवृक्षेषु बहूनि तालफलानि निर्गतानि। तालवृक्षाणामुपरि आरोहणं कृत्वा सर्वे तालफलानि अनायासेन स्वीकुर्वन्ति।
तेषु तालवृक्षेषु एकः तालवृक्षः बहूच्चतर आसीत्। अन्येषां तालवृक्षाणामपेक्षया तस्य बहु गर्वः। एतेषां तालवृक्षाणामधः लघुलघुगुल्मा अपि आसन्। गुल्माः किञ्चित् तपन्ति। यतो हि लघुप्राणिनः गुल्मम् अदन्ति। तालवृक्षस्योपरि आरोहणं कर्तुं लघुप्राणिनः न समर्थाः। अतः तालवृक्षस्य गर्वं भृशमेव। अयं दीर्घः तालवृक्षः लघुगुल्मानाम् उपहासं करोति । कदाचित् तालफलानि गुल्मानामुपरि पतन्ति। लघुगुल्मानां शाखाः छिन्नाः भवन्ति नष्टा अपि। तालवृक्षाणां गर्वस्य सम्मुखे गुल्माश्च तूष्णीं तिष्ठन्ति। तालवृक्षाणां गर्वभञ्जनं कर्तुं लघुगुल्माः सदैव समुचितसुयोगस्य अपेक्षां कुर्वन्ति।
एकदा भीषणवायुप्रवाहो जातः बहुसमयं यावत् वायुप्रवाहः बहुवेगेन प्रवाहितः। तत्परं वृष्टिरपि प्रारब्ध। तालवृक्षाः भयभीताः सञ्जाताः। सम्प्रति प्रवलवायोंः प्रवाहेन तालवृक्षाः दोलायमानाः सन्ति। तेषां शाखाप्रशाखाः भग्नप्रायाः। फलान्यपि अतः पतितानि। समुद्रस्य जलप्रवाहस्य स्त्रोतः बर्धितम्। तेन स्त्रोतसा मृत्तिकाक्षयः अभवत्। तेन तालवृक्षाणां मूलमपि शिथिलं जातम्। अन्ते सर्वे विशालतालवृक्षाः भूमौ निपतिताः। अत्युच्चतालवृक्षः अपि भूमौ अपतत्। परं तु लघुगुल्माः नैव नष्टाः। तालवृक्षाणां गर्वः नष्टः। अतः "कदा गर्वो न कर्त्तव्यों गर्वो नाशस्य कारणम्। तस्मान्नम्राः भविष्यामों विद्या ददाति नम्रताम्।।"
Question 1: तालवृक्षः कस्य समीपे विराजते ? — CTET Paper 1 (23 Jan, 2023)
1) नद्याः समीपे
2) सागरस्य समीपे
3) उद्यानस्य समीपे
4) भवनस्य समीपे
Question 2: जनाः प्रत्यहं कुत्र गच्छन्ति ? — CTET Paper 1 (23 Jan, 2023)
1) उद्यानं प्रति
2) आपणं प्रति
3) कार्यालयं प्रति
4) समुद्रतटं प्रति
Question 3: तालवृक्षाः कथं भयभीताः सञ्जाताः? — CTET Paper 1 (23 Jan, 2023)
1) वायुप्रवाहेन
2) जलप्रवाहेन
3) सिंहेन
4) वानरेण
Question 4: तालवृक्षाणामधः के आसन् ? — CTET Paper 1 (23 Jan, 2023)
1) लघुगुल्माः
2) प्रस्तराः
3) नदी
4) कोटरम
Question 5: 'सविधे' इति पदे का विभक्तिः ? — CTET Paper 1 (23 Jan, 2023)
1) द्वितीया
2) सप्तमी
3) पञ्चमी
4) षष्ठी
Question 6: 'प्रतिदिनकरम्दिनं' इत्यस्य समानार्थकं पदं चित्वा लिखत — CTET Paper 1 (23 Jan, 2023)
1) दिनकरम्
2) प्रतिनिशम्
3) प्रत्यहन्
4) प्रातः
Question 7: 'खादन्ति' इत्यस्य समानार्थकं क्रियापदं चित्वा लिखत — CTET Paper 1 (23 Jan, 2023)
1) पतन्ति
2) जल्यन्ति
3) अदन्ति
4) वर्षन्ति
Question 8: 'छिन्नाः' इति पदे प्रयुक्तं कृदन्तप्रत्ययं चित्वा लिखत — CTET Paper 1 (23 Jan, 2023)
1) शतृ
2) क्तवा
3) ल्यप्
4) क्त
Comprehension: (Que No. 9 - 15)
निर्देश: अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तर चिनुत।
एक पिपीलिका आसीत्। एकदा आहारार्थं भ्रमन्ती सा कमपि आम्रस्य पादपं समारोहत्। वृक्षस्य शाखासु धावन्ती सा अकस्माद् अस्खलत्, अपतञ्च अधस्ताद् भरिते जलाशये। तस्मिन्नेव वृक्षे कस्यचित् कपोतस्य कुलायः अभवत्। स तत्र स्थितः जले निमज्जन्तीं पिपीलिकाम् अपश्यत। मृयमाणायां तस्यां पिपीलिकायां दयालुः स कपोतः शुष्कम् आम्रस्य दलमेकतपातयत् तत् पत्रं जले अतरत्। पिपीलिका च तस्मिन्नारूढा सती स्वजीवितम् अरक्षत्, आविरकरोञ्च कृतज्ञातम्। ततः तौ मित्रे अभवताम्।
ततः दिनेषु गच्छत्सु एकदा स कपोतः वृक्षस्य शाखायाम् एकाकी अतिष्ठत्, पिपीलिका च वृक्षस्य मूले स्वरूप बिलस्य द्वारि कर्मपरा अभवत्। तदैव कश्चिद् व्याघः आगत्य कपोतं हन्तुं धनुषि बाणसन्धानम् अकरोत्। पिपीलिका तमपश्यत्। सा धावन्ती व्याधस्य स्कन्धम् आरुह्य क्रोधेन तं तथा अदशत् यथा दंशपीडितः स व्याधः लक्ष्याद् अपाराध्यत्। धर्नुवक्रः शरश्च अन्यां दिशाम् अगच्छत्। तस्य शब्दं श्रुत्वा कपोतश्व उड्डीय वृक्षान्तरम् अयासीत्। एवं तौ विपदि परस्परं साहाय्यं कुर्वन्तौ चिरं सुखेन न्यवसताम्।
Question 9: पिपीलिका कस्य पादपं समारोहत् ? — CTET Paper 1 (23 Jan, 2023)
1) सेमलस्य
2) आम्रस्य
3) लकुचस्य
4) जम्बीरकस्य
Question 10: पिपीलिका कुत्र अपतत् ? — CTET Paper 1 (23 Jan, 2023)
1) जलाशये
2) पुष्पे
3) गृहद्वारे
4) सागरे
Question 11: जलाशये आम्रदलं कः अपातयत् ? — CTET Paper 1 (23 Jan, 2023)
1) मूषकः
2) भल्लूकः
3) वानरः
4) कपोतः
Question 12: व्याधं कः अदशत् ? — CTET Paper 1 (23 Jan, 2023)
1) मूषकः
2) पिपीलिका
3) कपोतः
4) वानरः
Question 13: 'नीडः' इत्यस्य समानार्थकं पदं चित्वा लिखित — CTET Paper 1 (23 Jan, 2023)
1) कुलायः
2) वृक्षः
3) पत्रम्
4) पुष्पम्
Question 14: 'उड्डीय' इति पदे कः कृदन्तप्रत्ययः प्रयुक्तः ? — CTET Paper 1 (23 Jan, 2023)
1) क्तवा
2) ल्यप्
3) शतृ
4) शानच्
Question 15: 'धावन्ती' इति पदे प्रयुक्तं कृदन्तप्रत्ययं चित्वा लिखत — CTET Paper 1 (23 Jan, 2023)
1) क्त्
2) शानच्
3) ल्यप्
4) शतृ
Question 16: एशिया महादेशः स्व भाषिक - साहित्यिक - विविधतया सार्धं बहुभाषिक वादस्य विकासदृष्ट्या समृद्धः अस्ति। बहुभाषिक वादेन कः आशयः ? — CTET Paper 1 (23 Jan, 2023)
1) आकारिक - भाषिक कौशलं सम्प्रेषणात्मकसामर्थ्य च यौ विभिन्नसामाजिक प्रसङ्गेषु प्रयुज्येते।
2) आकारिक - भाषिक कौशलं भाषिकसामर्थ्य च ययोः व्याकरणाबोधः सन्निविष्टः।
3) लक्ष्यभाषायाः संस्कृतेः साहित्यिकपरम्पराणां, साहित्यिकग्रन्थानां च अवबोधः।
4) लक्ष्यभाषायाः संस्कृतेः साहित्यस्य चतुर्वौशलानाम च अवबोधः।
Question 17: भाषान्तरणम् (Translanguaging) — CTET Paper 1 (23 Jan, 2023)
1) भाषां ‘क्रियावत्’ पश्यति, न तु 'विशेषणवत्’।
2) द्वे भाषे पृथक-तन्त्रे भवेताम् इति अवधारणायाः खण्डनं करोति।
3) सामाजिकान्यस्य धारणां भाषा-शिक्षणस्य धुरी एव मन्यते।
4) बहुभाषाप्रयोगतः एक भाषायाः प्रयोगं प्रति अवधान - अन्तरणम्।
Question 18: छात्राणां सृजन - सामर्थ्य - सम्वर्धनम् अस्ति — CTET Paper 1 (23 Jan, 2023)
1) प्राक - विद्यालयि - कक्षाभिः विशिष्टकार्यक्रमैः सीमितं भवेत्।
2) मुख्यधाराशिक्षणात् भिन्ना प्रक्रिया।
3) शिक्षकेभ्यः प्रदत्तकार्याणां मध्ये एकं कार्यम्
4) सर्वान् विचारान् प्रोत्साहयति, त्रुटिपूर्ण विचारान् अपि।
Question 19: एक: शिक्षकः अनुभवति यत् तस्य श्रव्य-पाठः (Listening lession) विफलं जातः। तेन यत्किंचित् कृतं तेषां अधिकांशः छात्राणां कृते सहायरूपं नाभवत्। पश्यतु यत्किंचित् तेन कृतं। एतेषां मध्ये समीचीनं विचारं चिनुत — CTET Paper 1 (23 Jan, 2023)
1) रिकार्डिंग-वादन पश्चात् सः विसृतश्रवणनिर्देश पत्रकं दत्तवान्।
2) सः छात्रान् उत्तराणि अवलम्ब्य चर्चापूर्वे स्व स्वउत्तराणि अवलोकयितुं निर्दिशति।
3) सः रिकार्डिंगविषयक संकेतं न दत्तवान, दत्तवान, किंचित् कालान्तरे मां रिकार्डिंगस्य सम्यक् बिन्दवः प्रतिभान्ति।
4) तेन छात्रेभ्यः कार्यसारावली न दत्ता।
Question 20: अधोलिखितेषु किं व्याकरणपाठस्य चरणं नास्ति ? — CTET Paper 1 (23 Jan, 2023)
1) श्यामपट्टे संकलितत्रुटीन् लिखतु।
2) व्याकरणविषयस्य अर्थपरीक्षणाय कक्षा अन्तर्क्रियायाः प्रयोगः कुरुत।
3) शिक्षकेण अर्थस्य रूपस्य परीक्षणम्।
4) शब्दानां प्रथमभाषायां अन्यभाषायां वा अनुवादः।
Question 21: अधोलिखितेषु का भाषा शिक्षणस्य अवधारणा नास्ति ? — CTET Paper 1 (23 Jan, 2023)
1) बहुभाषिकता
2) श्रव्य-भाषित-पद्धतिः
3) कार्याधारित-अधिगमः
4) आदिप्ररूप-सिद्धान्तः
Question 22: स्टीफन क्रेशन महोदयानुसारेण, यदि छात्रः 'इ' अवस्थायां वर्तते, भाषा-अधिग्रहणं सम्भवति ‘इ + 1’ इति स्तरे, यदा छात्रः ________ प्रति ग्रहणशीलः भवति। — CTET Paper 1 (23 Jan, 2023)
1) निवविर्ष्टि अन्तर्ग्रहणं च
2) अबोध्य-निविष्टिं
3) बोध्य-निविष्टिं
4) निविष्टिं निर्गतं च
Question 23: पठनस्य मुख्य पद्धतयः सन्ति — CTET Paper 1 (23 Jan, 2023)
1) लघुदीर्घपाठयोः पठनं, सारांशग्रहणं च।
2) रसास्वादाय पठनं, सूचनायै बहिर्वेशनाय च पठनम्।
3) द्रुतपठनम् क्रमवीक्षणम् सोद्देश्यपठनं च।
4) द्रुतपठनं, क्रमवीक्षणं, अनुमानात्मकपठनं बहिर्वेशनात्मक पठनं च।
Question 24: अधोलिखितेषु किं भाषाशिक्षायाः अवधारणा नास्ति ? — CTET Paper 1 (23 Jan, 2023)
1) नकारात्मक प्रतिपुष्टिः
2) मनोविश्लेषणम्
3) पठनवैकल्यम्
4) अनुवादः
Question 25: 'सम्मिश्रित- अधिगमः' — CTET Paper 1 (23 Jan, 2023)
1) सम्मिश्रित-पद्धतेः शिक्षणे सम्प्रेषणात्मकभाषायाः च संयोजनम्।
2) शिक्षणस्य पारम्परिक उपागमेन सह अन्तर्जालाधारित नवोपागमस्य संयोजनम्।
3) प्रथमभाषामधिकृत्य वस्तुविषयाणां अधिगमः।
4) भाषा शिक्षणाय द्वयोः एप्प' इति यन्त्रयोः संयोजनम्।
Question 26: 'प्रामाणिकता' उत्पत्तेः यार्थाथ्यं सत्यं च सूचयति। इदं पदं पाठानां वैशिष्टयज्ञापनाय, अधिगम सामग्री, दत्तकार्याणि, सांस्कृतिक वस्तूनि इत्यादय ज्ञापनाय प्रयुज्यते। अधोलिखितेषु किं प्रामाणिक सामग्रयाः वैशिष्ट्यानि न भवन्ति ? — CTET Paper 1 (23 Jan, 2023)
1) प्रामाणिकपाठाः विश्वकोशेषु प्राप्यनते।
2) समाचार-पत्राणि, भित्तिचित्राणि, संदर्भिकाःच प्रामाणिकपाठानां उदाहरणानि।
3) प्रामाणिकवस्तुनः कालः सुकरतया ज्ञायते।
4) प्रामाणिकपाठेषु सांस्कृतिकसूचनाः भवन्ति।
Question 27: "भवान् कथावबोधनां विचार्य कथयतु चेत् कच्छपः शशकम् आश्वस्तमिष्यति ?" अयं प्रश्नः अस्ति — CTET Paper 1 (23 Jan, 2023)
1) तथ्यात्मकपठनस्य परीक्षणम्
2) सूचनाग्रहणम्
3) शब्दावलि अवधारणायाः परीक्षणम्
4) बहिर्वेशीपठनस्य परीक्षणम्
Question 28: बाह्याः छात्रा ये संस्कृतं शिक्षान्ते, तैः पूर्वमेय कोऽपि भाषा गहनतया ज्ञाता भवति। अधोलिखितेषु असङ्गतं विकल्पं चित्वा लिखत। — CTET Paper 1 (23 Jan, 2023)
1) यदा प्रथमभाषा संस्कृतभाषा च परस्परं सम्पर्के आयातः तर्हि ध्वनीनां स्तरे विभ्रमाः भवन्ति।
2) यदा भारतीयविद्यार्थिनः संस्कृतम् अधिगनतुम् आरभन्ते, ते संसकृतेन सर्वथा अनभिज्ञाः भवन्ति।
3) विद्यार्थिभिः संस्कृते निपातानां प्रयोगे काठिन्यं अनुभूयते।
4) बहुलाः द्वितीयभाषाविद्यार्थिनः कारकानां प्रयोगे काठिन्यं अनुभवन्ति।
Question 29: "छात्रान् चतुरः पृथक् अनुच्छेदान् समीचीनेक्रमे व्यवस्थापयितुं निर्दिशतु।" अयं कस्य सम्बन्धितः प्रश्नः अस्ति? — CTET Paper 1 (23 Jan, 2023)
1) पठनक्रमे व्याकरणस्य अवबोधनम्
2) लेखने व्यवस्थापनम्
3) शब्दावली
4) उच्चारणम्
Question 30: भाषाशिक्षासम्बन्धिराष्ट्रीयशिक्षानीतेः 2020 विषये अधोलिखितेषु किम् असत्यम् ? — CTET Paper 1 (23 Jan, 2023)
1) मातृभाषायाः अन्यभारतीयभाषायाः श्रेण्यभाषायाः वैदेशिकभाषायाः च शिक्षणम्
2) यथाशक्यं मातृभाषा/गृहभाषामाध्यमेन शिक्षणम्।
3) शिक्षणस्य प्रारम्भिकावस्थयाः एव आङ्ग्लभाषामाध्येमेन शिक्षणम्।
4) शिक्षणस्य द्वितीयकअवस्थायां वैदेशिकभाषायाः शिक्षणम्।