WhatsApp Group Join Now
WhatsApp Channel Join Now

CTET Official Paper-I (Held On: 17 Jan, 2022) – Sanskrit - I PYP Quiz

CTET Official Paper-I (17 जनवरी 2022) के Sanskrit - I PYP Quiz में संस्कृत भाषा की मूलभूत समझ, व्याकरणिक संरचना और शाब्दिक ज्ञान से जुड़े महत्त्वपूर्ण प्रश्न शामिल होते हैं। यह क्विज़ शिक्षार्थियों को पिछले वर्ष के प्रश्नपत्र के आधार पर अपनी तैयारी को मजबूत करने में मदद करता है। परीक्षा पैटर्न को समझने और संस्कृत विषय में पकड़ बनाने के लिए यह क्विज़ अत्यंत उपयोगी माना जाता है।

इस क्विज़ के प्रश्न ऐसे तैयार किए गए हैं, जो अभ्यर्थी की संस्कृत शब्दावली, वाक्य विन्यास, समास, तद्धित–कृदन्त तथा भाषा-प्रयोग जैसी क्षमताओं का मूल्यांकन करते हैं। जो भी छात्र CTET में उत्कृष्ट अंक प्राप्त करना चाहते हैं, उनके लिए यह PYP Quiz अभ्यास का एक श्रेष्ठ साधन है। नियमित अभ्यास से अभ्यर्थी अपनी गलतियों को पहचान सकते हैं और विषय की गहराई को सरल रूप में समझ पाते हैं।

CTET Official Paper-I (Held On: 17 Jan, 2022) – Sanskrit - I PYP Quiz

CTET Official Paper-I (Held On: 17 Jan, 2022) – Sanskrit - I PYP Quiz

Comprehension: (Que No. 1 - 9)
अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत।

गङ्गानाम् उभयतः विविधैः वृक्षैः सुशोभिताः ग्रामाः आसन्। तत्र एकस्मात् ग्रामात् बहिः वृक्षस्य अधः एकः जीर्णः कूपः आसीत्। तस्मिन् कूपे मण्डूकानाम् अधिपतिः गङ्गदत्तः परिजनैः सह निवसति स्म। सः गङ्गदत्तः परिश्रमं विनैव प्रभुत्वं प्राप्नोत्। अतः गर्वितः अभवत्। तस्य दुर्व्यव्हारेण केचित् प्रमुखाः भेकाः रुष्टाः जाताः। ते गङ्गदत्तम अधिकारेण हीनं कृत्वा कूपात् बहिः कर्तुम् उद्यताः अभवन्। तद् ज्ञात्वा गङ्गदत्तः विषादः अनुभवति स्म। ‘शत्रूणां नाशः कथं भवेत्' इति एकान्ते चाटुकारैः सह मन्त्रणाम् अकरोत्। एकः नष्टबुद्धिः नाम मण्डूकः नत्वा अकथयत् - नीति विना किमपि न सिद्ध्यति। शत्रुः शत्रुणा नाशयितव्यः' इति नीतिः। एषां शत्रूणां नाशाय सर्पः सहायकः भविष्यति। यः वृक्षस्य कोटरे निवसति। एवं संघर्ष विनैव शत्रुनाशः भविष्यति।

ततः मूढः गङ्गदत्तः कूपात् बहिरागत्य सर्पस्य समीपं गतः। सः सर्प सादरम् उच्चैः अवदत् - नागराजाय नमः। विषधरः अवदत् - स्वागतं सखे! किं ते प्रियं करवाणि। किमर्थं आगतः असि ? गङ्गदत्तः अवदत् - “त्वया सह मैत्री कर्तुं तव द्वारम् उपागतः। सर्पराजः तम् अपृच्छत् - भक्ष्यभक्षकयोः मध्ये कीदृशी मैत्री ? गङ्गदत्तः अकथयत् - सत्यम्, परम अधुना अपमानितः अहं तव साहाय्यं अभिलषामि। ‘कस्मात् ते परिभवः'? 'स्वजनेभ्यः' 'क्व ते निवासः वाप्यां, कूपे, तडागे वा'? 'कूपे'। 'आगच्छ मया सह कूपस्य अन्तःप्रविश्य मम् शत्रून् नाशय।

ततः सर्पराजः तस्य वचनं स्वीकृत्य अकथयत् - अलम् चिन्तया। अन्धः अस्मि। ‘मां कूपं नय’। तदा तत्र गत्वा गङ्गदत्तः तस्मै प्रतिदिनं एकैकं मण्डूकं भोजनाय प्रयच्छति स्म। क्रमशः स सर्पः सर्वान् भेकान् अभक्षयत् अकथयत् च - बुभुक्षितः अस्मि। ‘प्रयच्छ मे अन्यत् भोजनम्। गङ्गदत्तः अवदत्- ‘मार्गं देहि येन बहिः गत्वा अन्यस्मात् जलाशयात् मण्डूकान आनयामि'। ततः सर्पः तस्मै मार्गं दत्तवान्। गङ्गदत्तः बहिः आगत्य सोल्लासम् अवदत्- न गङ्गदत्तः पुनरेति कूपम्।

Question 1: वृक्षस्य अधः किम् आसीत् ? — CTET Paper 1 (17 Jan, 2022)
1) कोटरः
2) भवनम्
3) कूपः
4) गर्तम्
Question 2: मण्डूकानाम् अधिपतिः कः आसीत ? — CTET Paper 1 (17 Jan, 2022)
1) हरिदत्तः
2) गङ्गदत्तः
3) कृष्णदत्तः
4) रामदत्तः
Question 3: गङ्गदत्तस्य दुर्व्यवहारेण के रुष्टाः जाताः ? — CTET Paper 1 (17 Jan, 2022)
1) मूषकाः
2) वानराः
3) व्याघ्राः
4) भेकाः
Question 4: नीति विना किमपि न सिद्ध्यति, एतद् वाक्य कस्य वर्तते? — CTET Paper 1 (17 Jan, 2022)
1) धर्मबुद्धिः
2) नष्टबुद्धिः
3) बालबुद्धिः
4) सुबुद्धिः
Question 5: 'अधिपतिः' इति पदस्य पर्यायः - — CTET Paper 1 (17 Jan, 2022)
1) राजा
2) ईश्वरः
3) मन्त्री
4) राजपुरुषः
Question 6: अस्मिन् अनुच्छेदे प्रयुक्तस्य उद्यताः' इति पदस्य समानार्थकं पदम् – — CTET Paper 1 (17 Jan, 2022)
1) कृताः
2) भीताः
3) गर्विताः
4) तत्पराः
Question 7: ‘वाप्याम्' इति पदे का विभक्तिः ? — CTET Paper 1 (17 Jan, 2022)
1) द्वितीया
2) सप्तमी
3) चतुर्थी
4) प्रथमा
Question 8: ‘नत्वा' इति पदे प्रयुक्तः कृदन्तप्रत्ययः — CTET Paper 1 (17 Jan, 2022)
1) ल्यप्
2) शतृ
3) क्त्वा
4) शानच
Question 9: ‘करवाणि' इति क्रिया पदे को लकारः ? — CTET Paper 1 (17 Jan, 2022)
1) लङ्-लकारः
2) लोट-लकारः
3) लट्-लकारः
4) लिट्-लकारः

Comprehension: (Que No. 10 - 15)
अधोलिखितान् श्लोकान् पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत ।

मुक्तिमिच्छसि चेत्तात्! विषयान् विषवत् त्यज।
क्षमार्जवं दयां शौचं सत्यं पीयूषवत् भज ।।1।।
अन्तःसारविहीनानामुपदेशो न जायते ।
मलयाऽचलसंसर्गात् न वेणुश्चन्दनायते ।।2।।
संसारविषवृक्षस्य द्वे फले ह्यमृतोपमे।
सुभाषितं न सुस्वादु सङ्गतिः सुजने जने ।।3।।
कामधेनुगुणा विद्या ह्यकाले फलदायिनी ।
प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतम् ।।4।।
अभ्यासाद्धार्यसे विद्या कुलं शीलेन धार्यते ।
गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते ।।5।।

Question 10: केषां उपदेशः न जायते ? — CTET Paper 1 (17 Jan, 2022)
1) सज्जनाः
2) दुर्जनाः
3) अन्तःसारहीनाः
4) शत्रवः
Question 11: अकाले का फलदायिनी भवति ? — CTET Paper 1 (17 Jan, 2022)
1) माता
2) धरित्री
3) वाणी
4) विद्या
Question 12: “संसारविषवृक्षस्य अत्र कोऽलङ्कारः ? — CTET Paper 1 (17 Jan, 2022)
1) उपमा
2) रूपक
3) यमक
4) उत्प्रेक्षा
Question 13: विद्या कुत्र मातृसदृशी भवति ? — CTET Paper 1 (17 Jan, 2022)
1) गृहे
2) वने
3) नगरे
4) प्रवासे
Question 14: नेत्रेण कः गम्यते ? — CTET Paper 1 (17 Jan, 2022)
1) कोपः
2) गुरुः
3) भार्या
4) गृहम्
Question 15: विषवत् किं त्याज्यः ? — CTET Paper 1 (17 Jan, 2022)
1) मदिरा
2) विषयः
3) शर्करा
4) सङ्गीतम्
Question 16: छात्राणां प्राथमिकस्तरस्य मूल्याङ्कनक्रमे भाषाशिक्षकेण प्रामुख्येन ध्यातव्यः। — CTET Paper 1 (17 Jan, 2022)
1) औपचारिक साप्ताहिक परीक्षा प्रगतिपत्रे आकलनं च
2) सत्रान्तरपरीक्षा या उद्घोषयेत् उत्तीर्णं अनुत्तीर्णं वा
3) छात्राणां प्रदर्शनविषये सूचनासङ्ग्रहार्थं विविधविधीनां प्रयोगः, छात्रेभ्यः अभिभावकेभ्यश्च तासामग्रसारणम्।
4) वैविध्यं भाषा-अभ्यासं च वर्धनाय प्रतिदिवसं कक्षाकार्य-गृहकार्यपूर्वकं समनुदेशनकार्यं (Assignment) प्रदेयम्।
Question 17: शिशवः एकभाषाज्ञानेन एकाधिकभाषाज्ञानेन वा सार्धं विद्यालयम् आयान्ति एकाधिकभाषाज्ञानं शिशून उपकरोति - — CTET Paper 1 (17 Jan, 2022)
1) अन्यभाषाणां नवविषयाणां च सौकर्येण अधिगमे।
2) अन्तः सांस्कृतिक-अवबोधने राष्ट्ररीति-अवबोधने च।
3) संवेदनशीलः भवितुम् अन्येभ्यः छात्रेभ्यः मेलनं च वारणाय।
4) उच्चाङ्क प्राप्तुं तद्भाषाणां लिपि-अवबोधने।
Question 18: तृतीयकक्षायाः विद्यार्थिनां अभ्यासपुस्तिका अवलोकनक्रमे
भाषाशिक्षकेण केचिद् त्रुटयः चिह्निताः अनुभूयन्ते च – — CTET Paper 1 (17 Jan, 2022)
1) शिशवः अनवधानेन त्रुटयः कुर्वन्ति।
2) शिशवः त्रुटयः कुर्वन्ति पुनर्कुर्वन्ति यतः शिक्षकः तान् न दण्डयति।
3) शिशूनां त्रुटयः स्वभाविकाः तेषां अवबोधनस्तरस्य द्योतकाः च।
4) एते त्रुटयः शिक्षकेण क्षन्तव्याः यतः ते शिक्षणदृष्टौ आधारभूताः।
Question 19: वायगॉट्त्सकी (Vygotsky) अनुसारं शिशवः समवयसशिशुभिः सार्धं सामाजिक-अन्तक्रियया शिक्षन्ति भाषाशिक्षकः कुर्यात् - — CTET Paper 1 (17 Jan, 2022)
1) पाठयोजना एतादृशी भवेत् यत्र बालाः पृथक् पृथक् उपविशन्तु, कक्षायां परस्पर-सम्मिलनात् वार्तालापात् च वारयतु।
2) सम्मिलनं वारयितुं पाठ-योजनायां क्रीडायाः वार्ताया: च निषेधः।
3) अनुशासनं स्थापयितुं प्रोत्साहनस्य, पुरस्कारस्य, दण्डस्य च व्यवस्था।
4) युग्मकार्याय/समूहकार्याय च योजना भवेत् यतः बालाः स्व वयस्कैः अन्तक्रियाकर्तुम् शक्नुवन्ति।
Question 20: भारतीयाकक्षाः बहुभाषिककक्षाः एतत् बहुभाषिकत्वं ध्यात्वा अधोलिखितेषु विकल्पेषु प्राथमिकस्तरस्य बहुभाषिककक्षाविषये किं उपयुक्ततमम् ? — CTET Paper 1 (17 Jan, 2022)
1) शिक्षकेण विद्यार्थिभाषां उपेक्षा कृत्वा विद्यालयभाषां अवधातव्यः।
2) गृहभाषया मातृभाषया गृहे वक्तव्यम्, विद्यालये न।
3) भारते एकभाषिकाः विद्यालयाः भवेयुः। यतस्मिन् विद्यार्थिनः भाषाचयनक्रमतः ग्रहीतव्याः।
4) शिक्षकाः छात्रेषु स्वभाषया अभिव्यक्तये संवादाय उत्साहः वर्धयन्तु।
Question 21: भाषाशिक्षकः एतावत् कार्यं दद्यात् यत् युग्मे समूहे करणीयं यतः — CTET Paper 1 (17 Jan, 2022)
1) समूहकार्ये बालाः अविलम्बेन स्वकार्य समाप्तिं कुर्युः।
2) इदं शिक्षककार्यं न्यूनं करोति यतः समूह-निरीक्षण तुलनया प्रतिबालम् अवधानं कठिनम्।
3) एतादृश सोद्देश्यकार्येषु बालाः परस्परं शिक्षन्ते सहयोगं च कुर्वन्ति।
4) तेषां मध्ये अधिक-अङकप्राप्तये प्रतिस्पर्धा वर्धते।
Question 22: एकः शिक्षकः अवलोकयति यत् तदकक्षायां एकः शिशुः पठने, भाषा अवबोधने च काठिन्यं अनुभवति । एतत् लक्षणं भूयात् – — CTET Paper 1 (17 Jan, 2022)
1) गणन-वैफल्यम् (Dyscalculia)
2) लेखन-वैफल्यम् (Dysgraphia)
3) करण-वैफल्यम् (Dyspraxia)
4) पठन-वैफल्यम् (Dyslexia)
Question 23: प्राथमिकस्तरे मूल्याङ्कनकरणाय अधोलिखितेषु कथनेषु किं समीचीनम् ? — CTET Paper 1 (17 Jan, 2022)
1) मूल्याङ्कनं प्रतिसत्रान्ते (end of the each term) करणीयम्।
2) मूल्याङ्कनं राज्याधारित-प्रक्रिया भवेत्, सर्वथा राज्येन एव आयोजनीयम्।
3) मूल्याङ्कनं विद्यालयाधारितं भवेत्, अध्ययन-अध्यापनस्य च अन्तः ग्रथित-प्रक्रिया च अस्ति।
4) मूल्याङ्कनं प्रतिवर्षं केवलम् एकवारं आयोजनीयम्।
Question 24: अधस्तनेषु भवता भाषाकक्षायां प्रामाणिकं सामग्रीव किं स्वीकरणीयः? — CTET Paper 1 (17 Jan, 2022)
1) पाठ्यपुस्तकम्
2) अभ्यास-पुस्तिका
3) समाचारपत्रम्
4) पूरक-पुस्तिका
Question 25: भाषाधिगमाय सामग्री प्रबन्धस्य सिद्धान्तेषु एकः सिद्धान्तः अस्ति ? — CTET Paper 1 (17 Jan, 2022)
1) प्रत्येकं आयुर्वर्गाणाम् कृते विविधप्रकारा: सामग्री चेतव्या।
2) सामग्रयाः वर्गीकरणं समुचितं कर्त्तव्यम्।
3) कीदृशी एव सामग्री चेतव्या।
4) सामग्री अल्पा तथा सीमिता स्यात्।
Question 26: भाषा-अधिग्रहणं भवति यदा - — CTET Paper 1 (17 Jan, 2022)
1) छात्रान् भाषानियमान् पाठ्यन्ते।
2) छात्राय पुरस्कार: दण्डः वा दीयते।
3) छात्रः भाषायाः सम्पर्के आगच्छति।
4) छात्रः भाषां विशेष-अवधानेन विनैव शिक्षति।
Question 27: भाषायाः उत्पादिके योग्यते स्तः ? — CTET Paper 1 (17 Jan, 2022)
1) पठनम् , लेखनम् च
2) पठनम् , श्रवणम् च
3) भाषणम्, लेखनम् च
4) भाषणम्, श्रवणम् च
Question 28: सर्वे शिशवः उत्साहिताः भवन्ति - — CTET Paper 1 (17 Jan, 2022)
1) वयस्केन नियोजितैः गतिविधिभिः
2) शिशुभिः नियोजितैः गतिविधिभिः
3) तेभ्यः सार्थकैः गतिविधिभिः
4) शिक्षकेभ्यः सार्थकैः गतिविधिभिः
Question 29: द्विभाषिच्छात्राः सामान्यतया एकस्‍याः भाषायाः सम्भाषणसमये अन्यभाषायाः पदानाम् प्रयोगं कुर्वन्ति। — CTET Paper 1 (17 Jan, 2022)
1) कूटपरिवर्तनम् (Code-switching)
2) कूटमिश्रणम् (Code-mixing)
3) बहुभाषावादः (Multilingualism)
4) सामर्थ्यस्तरः (Competence level)
Question 30: विद्यार्थिनाम् अधिगमस्य आकलनार्थं प्रयुक्तम् अङ्कपटः कथ्यते ? — CTET Paper 1 (17 Jan, 2022)
1) मूल्यकथनपटलम् (Rubrics)
2) निरीक्षणसूची (Check list)
3) विस्तृतसूची (Inventories)
4) क्रमनिर्धारणमापनी
और नया पुराने