Comprehension: (Que No. 1 - 8)
निम्नलिखितेषु गद्यांशम् आश्रित्य निम्नलिखितानां अष्टप्रश्रानां उत्तराणि यथोचितं विकल्पं चित्वा देयानि -
अस्ति कस्मिश्र्चित् वनप्रदेश नानाजलचरसनाथं महत् सरः। तत्र च कृताश्रयो बक एको वृद्धभावमुपागतो मत्स्यान् व्यापादयितुमसमर्थः। ततश्च क्षुत्क्षामकण्ठः सरस्तीरे उपविष्टो मुक्ताफलप्रकरसदृशैः अश्रुप्रवाहैर्धरातलमभिषिञ्चन् रुरोद। एकः कुलीरको नानाजलचरसमेतः समेत्य तस्य दुःखेन दुःखित सादरमिदमूचे, - "माम! किमद्य त्वया न आहारवृत्तिः अनुष्ठीयते ? केवलम् अश्रुपूर्णनेत्राभ्यां सनिः श्वासेन स्थीयते"। स आह- "वत्स! सत्यमुपलक्षितं भवता, मया हि मत्स्यादनं प्रति परमवैराग्यतया साम्प्रतं प्रायोपवेशनं कृतं, तेनाहं समीपगतानपि मत्स्यान् न भक्षयामि" कुलीरकः तच्छुत्वा प्राह - "माम! किं तद्वैराग्यकारणम्"।
स प्राह- "वत्स! अहम् अस्मिन सरसि जातो वृद्धिं गतश्च। तत् मया एतत् श्रुतं यत् द्वादशवार्षिकी अनावृष्टिः सम्पद्यते लग्नाः" कुलीरक आह, - "कस्मात् तच्छ्रुतम्" बक आह - "दैवज्ञमुखात्। यतः शनैश्चरो हि रोहिणीशकटं भित्वा भौमं शुक्रञ्च प्रयास्यति। वचनं निवेदयामास। अथ ते सर्वेभयत्रस्तमनसो मत्स्यकच्छपप्रबृतयस्तमभ्युपेत्य पप्रच्छुः - "माम! अस्ति कश्चिदुपायो येनास्मांक रक्षा भवति" ? बक आह- "अस्ति अस्य जलाशयस्य नातिदूरे प्रभूतजलसनाथं सरः पद्मिनीखण्डखण्डितं यच्चतुर्विंशत्यापि वर्षणामवृष्टया न शोषमेष्यति। तद्यदि मम पृष्ठं कश्चिदारोहति तदहं तं तत्र नयामि"।
Question 1: महत्सरः कीदृशम् आसीत्? — CTET Paper 1 (12 Jan, 2022)
1) नानावृक्षैः समावृतम्
2) अनेकजलचरैः पूर्णम्
3) सरसिजैः सुशोभितम्
4) बकसमूहैः कूजितम्
Question 2: बकः केन कारणेन मत्स्यान् व्यापादयितुम् असमर्थः आसीत्? — CTET Paper 1 (12 Jan, 2022)
1) सः वृद्धोSभवत्
2) स रुग्णः आसीत्
3) सरसि मत्स्याः नासन्
4) सरसी बहवो बकाः आसन्
Question 3: बकस्य दुःखेन दुःखितः कः आसीत्? — CTET Paper 1 (12 Jan, 2022)
1) मण्डूकः
2) मत्स्यः
3) मकरः
4) कुलीरकः
Question 4: मत्स्यानां न भक्षणे बकेन किं कारणम् अकथयत्? — CTET Paper 1 (12 Jan, 2022)
1) वार्धक्यम्
2) रोगम्
3) अशक्तिम्
4) वैराग्यम्
Question 5: 'मत्स्यादनं प्रति' इत्यस्मिन् अर्थे निम्नलिखितेषु कः प्रयोगः कर्तुं शक्यते - — CTET Paper 1 (12 Jan, 2022)
1) मत्स्यहिंसाम्
2) मत्स्यग्रहणम्
3) मत्स्यभक्षणम्
4) मत्स्यविक्रयम्
Question 6: 'भीत्वा' पदम् कस्माद् धातोः निर्मितम्? — CTET Paper 1 (12 Jan, 2022)
1) भित्
2) भिद्
3) भी
4) भिन्द्
Question 7: 'अभिषिञ्चन्' इत्यस्मिन् पदे कः 'कृत' प्रत्ययः? — CTET Paper 1 (12 Jan, 2022)
1) शतृ
2) शानच्
3) त्त्कवतु
4) त्त्क
Question 8: 'अनावृष्टि' इत्यस्मिन् पदे कः समासः? — CTET Paper 1 (12 Jan, 2022)
1) बहुव्रीहिः
2) कर्मधारयः
3) नञ् तत्पुरुषः
4) अव्ययीभावः
Comprehension: (Que No. 9 - 15)
निम्नलिखितं गद्यांशम् आश्रित्य सप्तप्रश्रानामुत्तराणि यथोचितं विकल्पं चित्वा दत्त।
अस्ति कस्मिंश्र्चित्प्रदेशे महान् न्यग्रोधपादपः। तत्र वायसदम्पति प्रतिवसतः स्म। अथ तयोः प्रसवकाले वृक्षविवरात् निष्क्रम्य कृष्णसर्पः सदैव तदपत्यानि भक्षयति। ततस्तौ निर्वेदात् अन्यवृक्षमूलनिवासिनं प्रियसुहृदं शृगालं गत्वा ऊचतुः "भद्र! किमेवंविधे सञ्जाते आवयोः कर्त्तव्यम् भवति । एवं तावत् दुष्टात्मा कृष्णसर्पाे वृक्षाविवरात् निर्गत्य आवयोर्बालकान् भक्षयति। तत् कथ्यतां तद्रक्षार्थं कश्र्चिदुपायः।
वायस आह - "भद्र! तत्कथय कथं स दुष्टसर्पाे वधमुपैष्यति ? शृगाल आह - "गच्छतु भवान् कच्चिन्नगरं राजाधिष्ठानम् । तत्र कस्यापि धनिनो राजामात्यादेः प्रमादिनः कनकसूत्रं हारं वा गृहीत्वा तत् कोटरे प्रक्षिप येन। सर्प तद्ग्रहणेन वध्यते"। अथ तत्क्षणात् काकः काकी च तदाकर्ण्य आत्मेच्छयोत्पतितौ। ततश्र्च काकी किञ्चित्सरः प्राप्य यावत्पश्यति तावत् तन्मध्ये कस्यचिद्राज्ञोSन्तः पुरं जलासन्नं न्यस्तकनकसूत्रं मुक्तमुक्ताहारवस्त्राभरण जलक्रीडां कुरुते।
अथ सा वायसी कनकसूत्रमेकमादाय स्वगृहाभिमुखं प्रतस्थे। ततश्र्च कंचुकिनो वर्षधराश्र्च तं नीयमानमुपलक्ष्य गृहीतलगुडाः सत्वरमनुययुः। काकी अपि सर्पकोटरे तत्कनकसूत्रं प्रक्षिप्य सुदूरमवस्थिता। अथ यावद्राजपुरुषास्तं वृक्षमारुह्य तत् कोटरमवलोकयन्ति तावत्कृष्णसर्पः प्रसारितभोगस्तिष्ठति। ततस्तं लगुडप्रहारेण हत्वा कनकसूत्रमादाय यथाभिलषितं स्थानं गताः। वायसदम्पती अपि ततः परं सुखेन वसतः। अतोSहं ब्रवीम - "उपायेन हि यत् कुर्य्यात्" इति। तन्न किञ्चिदिह बुद्धिमतामसाध्यमस्ति।
Question 9: न्यग्रोधपादपस्य कोSर्थः ? — CTET Paper 1 (12 Jan, 2022)
1) जम्बूवृक्षः
2) आम्रवृक्षः
3) शाल्मलीवृक्षः
4) वटवृक्षः
Question 10: कृष्णसर्पः कानि भक्षयति स्म? — CTET Paper 1 (12 Jan, 2022)
1) वायसी-अपत्यानि
2) मण्डूक-अपत्यानि
3) मूषक-अपत्यानि
4) कपोती-अपत्यानि
Question 11: वायसीदम्पतीभ्यां स्वदुःखं कस्मै निवेदितम्? — CTET Paper 1 (12 Jan, 2022)
1) शृगालाय
2) गरुडाय
3) वृक्षराजाय
4) नगरपतये
Question 12: कृष्णसर्पः कुतः निर्गच्छति स्म? — CTET Paper 1 (12 Jan, 2022)
1) वृक्षमूलात्
2) वृक्षशाखाभ्यः
3) तडागात्
4) वृक्षविवरात्
Question 13: राजपुरुषः किमर्थं वृक्षं आरुहन्? — CTET Paper 1 (12 Jan, 2022)
1) सर्पं हन्तुम्
2) कनकसूत्रं प्राप्तुम्
3) राजाज्ञां पालयितुम्
4) वायसदम्पतीं हन्तुम्
Question 14: 'कुर्यात्' इत्यास्मिन् पदे कः लकारः अस्ति? — CTET Paper 1 (12 Jan, 2022)
1) लङ्
2) लट्
3) लृट्
4) विधिलिङ्
Question 15: 'गृहीतलगुडाः' इत्यत्र कः समासः विद्यते? — CTET Paper 1 (12 Jan, 2022)
1) बहुव्रीहिः
2) तत्पुरुषः
3) द्वन्द्वः
4) अव्ययीभावः
Question 16: अवबोध्यनिवेशस्य (Comprehensible input) अर्थोऽस्ति- — CTET Paper 1 (12 Jan, 2022)
1) सामग्री छात्रस्य वर्तमानयोग्यता स्तरात् स्तोकं उच्चतरा भवितव्या।
2) भाषा छात्राः तदा वरं कुर्वन्ति यदा ते वरीयोभिः छात्रैः सह युगलं निर्मान्ति।
3) छात्रैः स्वलक्ष्यानि निर्धारयितुं स्वशक्तयः दुर्बलताश्च ज्ञातव्याः।
4) छात्राः स्वसन्त्रं गृहकार्यं कर्तुं प्रेरयितव्याः।
Question 17: भाषाशिक्षणस्य अचेतनप्रक्रिया कथ्यते- — CTET Paper 1 (12 Jan, 2022)
1) भाषा-अधिग्रहणम्
2) भाषा-अधिगमः
3) भाषा-शिक्षा
4) भाषा-अध्यापनम्
Question 18: भाषाशिक्षणे निम्नलिखितेषु किं सहायकं नास्ति? — CTET Paper 1 (12 Jan, 2022)
1) भाषायाः बहिः सम्पर्कः
2) त्रुटीनां प्रति असहिष्णुता
3) सहायकः परिवेशः
4) छात्राणां प्रेरणम्
Question 19: श्रवणभाषीयता (Audio-Lingual) निम्नलिखितेषु कतमं महत्त्वं ददाति? — CTET Paper 1 (12 Jan, 2022)
1) पठनम् लेखनम् च
2) श्रवणम् भाषणम् च
3) भाषणम् लेखनम् च
4) श्रवणम् पठनम्
Question 20: कस्मिन् पक्षे छात्रः स्वानुभवम् आश्रित्य नवीनज्ञानम् निर्माति? — CTET Paper 1 (12 Jan, 2022)
1) निर्माणात्मकपक्षे
2) बहुविधयोग्यतापक्षे
3) संरचनात्मकपक्षे
4) सम्प्रेषणात्मकपक्षे
Question 21: पठनयोग्यतासु विहंगमदृष्टिपातः (skimming) अस्ति- — CTET Paper 1 (12 Jan, 2022)
1) पाठं उच्चैः पठितुं प्रयुक्तः पठनविधिः।
2) पाठे मुख्यम् अथवा सामान्यविचारं ज्ञातुं प्रयुक्तः विधिः।
3) पाठे विशिष्टसूचनां ज्ञातुं प्रयुक्तः विधिः।
4) प्रत्येकं अनुच्छेदस्य केवलं प्रथमं वाक्यं पठितुं प्रयुक्तो विधिः।
Question 22: मूलभूतं तथ्यं अथवा प्रस्तावना यत् विश्वासव्यवस्थायाः, व्यवहारस्य अथवा तर्कशृंखलायाः आधारो भवति, कथ्यते - — CTET Paper 1 (12 Jan, 2022)
1) सिद्धान्तः
2) भाषा
3) शिक्षणम्
4) तर्कसंगतिः (logic)
Question 23: अध्यापनविधिः निर्दिशति - — CTET Paper 1 (12 Jan, 2022)
1) कथं पाठयितव्यम्
2) किम् पाठयितव्यम्
3) कः पाठयितव्यः
4) कुत्र पाठयितव्यम्
Question 24: भाषायाः अध्यापने, अभिनयः, प्रहेलिकाः, समस्याः, प्रश्नोत्तरम् इत्यादयः कथ्यन्ते- — CTET Paper 1 (12 Jan, 2022)
1) विधिः
2) पक्षाः
3) अध्यापनप्रविधयः
4) योजना
Question 25: समेकित (summative) मूल्याङ्कनम् - — CTET Paper 1 (12 Jan, 2022)
1) विशेषकालावधौ छात्रस्य योग्यतानां निर्णयं करोति।
2) छात्रस्य प्रगतिविषये केन्द्रितम् भवति।
3) विद्यालयेषु साप्ताहिकीं परीक्षां विदधाति।
4) अधिकं निर्माणात्मकं भवति तथा अधिक पुनर्निवेशनं प्रददाति।
Question 26: सहपाठी-प्रतिपुष्टिः — CTET Paper 1 (12 Jan, 2022)
1) पाठ्यपुस्तकलेखने न प्रयोक्तव्या।
2) अध्ययन-अध्यापन प्रक्रियासु न प्रयोक्तव्या।
3) पाठ्यपुस्तकलेखने यथावसरं प्रयोक्तव्या।
4) पाठ्यपुस्तकलेखने नियमितरूपेण प्रयोक्तव्या।
Question 27: अस्माभिः भाषाकक्षासु चतस्त्रः योग्यताः - — CTET Paper 1 (12 Jan, 2022)
1) निर्मातव्याः
2) संयोजितव्या (integrate)
3) उपेक्षितव्या
4) पृथक् कर्त्तव्या
Question 28: कस्मिन् वयसि बालकाः बहुविधानि मात्रासंयोजनानि कुर्वन्ति? — CTET Paper 1 (12 Jan, 2022)
1) द्वि-चतुर्मासानां मध्ये
2) द्वादश-अष्टादशमासानां मध्ये
3) द्वि-त्रिवर्षाणां मध्ये
4) षड्-अष्टवर्षाणां मध्ये
Question 29: यदा कश्चिद् अध्यापकः शिक्षणे दोषान् अपहर्तुं आवश्यकानि संशोधनानि करोति, इदं कथ्यते- — CTET Paper 1 (12 Jan, 2022)
1) संशोधनात्मकं पठनम्
2) सक्षमता-परीक्षा
3) समूह-अध्यापनम्
4) निदानात्मक-परीक्षा
Question 30: प्रत्येकं भाषायाः ध्वनयः, संरचनाः, शब्दावल्यः पृथक्-पृथक् भवन्ति। भाषायाः इयं विशेषता दर्शयति यत् - — CTET Paper 1 (12 Jan, 2022)
1) भाषा स्वच्छन्दा भवति।
2) भाषा योग्यतायाः विषयः अस्ति।
3) भाषा व्यवस्था अस्ति।
4) भाषा जातिविशिष्टा भवति।