12 जनवरी 2022 को आयोजित CTET Paper-I के इस संस्कृत प्रश्नपत्र में अध्यापन से जुड़े महत्वपूर्ण बिंदुओं पर भी जोर दिया गया है, जैसे कि भाषा के शिक्षण के सिद्धांत, छात्र–केन्द्रित शिक्षण तकनीकें और पाठ्यपुस्तक आधारित अवधारणाएँ। इस PYP Quiz की मदद से उम्मीदवार परीक्षा पैटर्न को समझ सकते हैं तथा वास्तविक परीक्षा में पूछे जाने वाले प्रश्नों की प्रकृति से परिचित हो सकते हैं, जिससे तैयारी अधिक प्रभावी और लक्ष्य–उन्मुख बनती है।
Comprehension: (Que No. 1 - 9)
निम्नलिखितं गद्याशं पठित्वा नवप्रश्नानां समुचितानि उत्तराणि देयानि -
कस्मिंश्चिदधिष्ठानैः कौलिकरथकारौ मित्रे प्रतिवसतः स्मः। तत्र च तौ बाल्यात् प्रभृति सहचारिणौ, परस्परमतीव स्नेहपरौ सदा एकस्थानविहारिणौ कालं नयतः। अथ कदाचित् तत्राधिष्ठाने कस्मिंश्चिद्देवायतने यात्रामहोत्सवः संवृत्तः। तत्र च नटनर्त्तकचारणसंकुले नानादेशागतजनावृते तौ सहचरौ भ्रमन्तौ, काञ्चिद्राजकन्यां करेणकारुढां सर्वलक्षणसनाथां कञ्चुकिवर्षवरपरिवारितां देवतादर्शनार्थं समायातां दृष्ट्वन्तौ।
अथासौ कौलिकस्तां दृष्ट्वा विषार्दित इव दुष्टग्रहगृहीत इव कामशरैः हन्यमानः सहसा भूतले निपपात। अथ तं तदवस्थमवलोक्य रथकारः तद्दुःखदुःखितः आप्तपुरुषैस्तं समुत्क्षिप्य स्वगृहमानाययत्। तत्र च विविधैः शीतोपचारैः चिकित्सिकोपदिष्टैः मन्त्रवादिभिरूपचर्य्यमाणः चिरात् कथञ्चित् सचेतनो बभूव। ततो रथकारेण पृष्टः। "भो मित्र! किमेवं त्वमकस्माद् विचेतनः सञ्जातः। तत्कथ्यतामात्मस्वरूपम्"। स आह,- "वयस्य! यदि एवं तच्छृणु मे रहस्यं येन सर्वामात्मवेदनां ते वदामि यदि त्वं मां सुहृदं मन्यसे ततः काष्ठप्रदानेन प्रसादः क्रियतां, क्षम्यतां यद्वा किञ्चित्प्रणयातिरेकादयुक्तं तव मयानुष्ठितम्"। सोऽपि तदाकर्ण्य वाष्पपिहितनयनः सगद्गदमुवाच - "वयस्य! यत्किञ्चिदद्दुःखकारणं तद्वद येन प्रतीकारः क्रियते यदि शक्यते कर्त्तुम्।
Question 1: कौलिकः रथकारश्च परस्परं केन सम्बन्धेन बद्धौ स्तः? — CTET Paper 1 (12 Jan, 2022)
1) उभौ भ्रातरौ स्तः
2) उभौ मित्रे स्तः
3) उभौ प्रतिवेशिनौ स्तः
4) उभौ वनचरौ स्तः
Question 2: यात्रामहोत्सवः कुत्र संवृत्तः? — CTET Paper 1 (12 Jan, 2022)
1) नगरे
2) ग्रामे
3) राजप्रासादे
4) देवायतने
Question 3: राजकन्या किमर्थं तत्र समायाता? — CTET Paper 1 (12 Jan, 2022)
1) देवतादर्शनार्थम्
2) नगरभ्रमणार्थम्
3) वनविहारार्थम्
4) जनसमुदायस्य अभिनन्दनार्थम्
Question 4: केन प्रकारेण कौलिकः भूतले न्यपतत्? — CTET Paper 1 (12 Jan, 2022)
1) गजेन हन्यमानः
2) राजपुरुषै ताड्यमानः
3) कामशरैः हन्यमानः
4) विषेण पीड्यमानः
Question 5: उपचारैः कौलिकः कीदृशः जातः? — CTET Paper 1 (12 Jan, 2022)
1) विचेतनः
2) सचेतनः
3) निश्चेतनः
4) खिन्नः
Question 6: 'आकर्ण्य' इत्यस्य शब्दस्य कोऽर्थः? — CTET Paper 1 (12 Jan, 2022)
1) आगत्य
2) आनीय
3) श्रुत्वा
4) उक्त्वा
Question 7: 'विषार्दिता' इत्यस्मिन् पदे कः समासः? — CTET Paper 1 (12 Jan, 2022)
1) तृतीयातत्पुरुष
2) पञ्चमीतत्पुरुषः
3) द्वन्द्वः
4) बहुव्रीहिः
Question 8: 'नयतः' इत्यस्मिन् क्रियापदे को लकारः? — CTET Paper 1 (12 Jan, 2022)
1) लट्
2) लिट्
3) विधिलिङ्
4) लोट्
Question 9: निम्नलिखितेषु किं क्रियापदं कर्मवाच्यस्य नास्ति? — CTET Paper 1 (12 Jan, 2022)
1) क्रियताम्
2) क्षम्यताम्
3) क्रियते
4) मन्यसे
Comprehension: (Que No. 10 - 15)
निम्नलिखितानि पद्यानि पठित्वा प्रश्नानां यथोचितं विकल्पं चित्वा उत्तराणि देयानि -
परीक्षका यत्र न सन्ति देशे नार्घन्ति रत्नानि समुद्रजानि।
आभीरदेशे किल चन्द्रकान्तं त्रिभिर्वराटैर्विपणन्ति गोपाः।।1।।
लोहिताख्यस्य च मणेः पद्मरागस्य चान्तरम्।
यत्र नास्ति कथं तत्र क्रियते रत्नविक्रयः।।2।।
निर्विशेषं यदा स्वामी समं भृत्येषु वर्तते।
तत्रोद्यमसमर्थानामुत्साहः परिहीयते।।3।।
न विना पार्थिवो भृत्यर्न भृत्याः पार्थिवं विना।
तेषां च व्यवहारोऽयं परस्परनिबन्धनः।।4।।
भृत्यर्विना स्वयं राजा लोकानुग्रहकारिभिः।
मयूखैर्रिव दीप्तांशुस्तेजस्व्यपि न शोभते।।5।।
अरैः सन्धार्य्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः।
स्वामिसेवकयोरेवं वृत्तिचक्रं प्रवर्त्तते।।6।।
शिरसा विधृता नित्यं स्नेहेन परिपालिताः।
केशा अपि विराज्यन्ते निःस्नेहा किं न सेवकाः।।7।।
Question 10: रत्नानां मूल्यं कुत्र न भवति? — CTET Paper 1 (12 Jan, 2022)
1) यत्र बहुसंख्यायां रत्नानि भवन्ति।
2) यत्र धनाढ्याः न वसन्ति।
3) यत्र परिक्षकाः न सन्ति।
4) यत्र सौन्दर्यप्रियः न वसन्ति।
Question 11: समर्थानाम् उत्साहः कुत्र न्यूनः भवति? — CTET Paper 1 (12 Jan, 2022)
1) यदा भृत्येषु भेदभावः क्रियते।
2) यत्र राजा भृत्येषु समः वर्तते।
3) यत्र उद्यमस्य आवश्यकता न वर्तते।
4) यत्र राजा निस्सङ्गः भवति।
Question 12: पञ्चमे श्लोके कः अलङ्कारः? — CTET Paper 1 (12 Jan, 2022)
1) उपमा
2) उत्प्रेक्षा
3) रूपकम्
4) अनुप्रासः
Question 13: 'निर्विशेषम्' पदम् किमस्ति? — CTET Paper 1 (12 Jan, 2022)
1) संज्ञा
2) सर्वनाम्
3) विशेषणम्
4) क्रियाविशेषणम्
Question 14: 'परिहीयते' इत्यस्य शब्दस्य कोऽर्थः? — CTET Paper 1 (12 Jan, 2022)
1) वर्धते
2) क्षीयते
3) जायते
4) परिवर्तते
Question 15: 'तेजस्व्यपि' इत्यस्मिन् पदे कः सन्धिः? — CTET Paper 1 (12 Jan, 2022)
1) यण्
2) वृद्धिः
3) अयादिः
4) विसर्गः
Question 16: काचित् छात्रा अपठितपाठस्य समीक्षां कुर्वन्ती स्वकीयां पठनयोग्यतां प्रदर्शयति। या तस्याः संज्ञानात्मक स्तरात् उच्चतरा अस्ति अनेन ध्वन्यते - — CTET Paper 1 (12 Jan, 2022)
1) बोधगम्यनिवेशः (comprehensible input)
2) बोधगम्य उत्पादः (comprehensible output)
3) निरीक्षण परिकल्पना (monitor hypothesis)
4) स्वाभाविक क्रमः (natural order)
Question 17: सम्प्रेषणमाध्यमतः मस्तिष्के एकत्रित सूचनया प्रेरितं ज्ञानम् अवचेतन रूपेण स्वीकृतं ज्ञानम् कथ्यते - — CTET Paper 1 (12 Jan, 2022)
1) भाषा शिक्षणम्
2) भाषा विकासः
3) भाषा अधिग्रहणम्
4) कार्यम्
Question 18: निम्नलिखितेषु कः भाषायाः अवयवम् नास्ति? — CTET Paper 1 (12 Jan, 2022)
1) ध्वनिः
2) रूपम्
3) अर्थः
4) पठनम्
Question 19: कतमः विधिः लिखितभाषायाः तुलनायां भाषितभाषां अधिकं महत्त्वं ददाति? — CTET Paper 1 (12 Jan, 2022)
1) श्रवणभाषीयता विधिः
2) व्याकरण-अनुवादविधिः
3) संरचनात्मकविधिः
4) निगमनविधिः (Deductive method)
Question 20: कस्मिन् विधौ अध्यापकः सर्वान् विधीन् जानीयात्? — CTET Paper 1 (12 Jan, 2022)
1) व्याकरण-अनुवादविधिः
2) प्रत्यक्षविधिः
3) क्रियाश्रित-अधिगमः
4) विभिन्नदर्शनग्रहणम्
Question 21: समाचारपत्रस्य मुख्यसमाचारेषु त्वरितदृष्टिपातः कथ्यते? — CTET Paper 1 (12 Jan, 2022)
1) सघनपठनम्
2) परिवीक्षणम् (scanning)
3) विस्तृतपठनम्
4) विहंगमदृष्टिपातः (skimming)
Question 22: निम्नलिखितेषु का लेखनस्य विशेषता नास्ति? — CTET Paper 1 (12 Jan, 2022)
1) मौखिकप्रतिवेदनस्य प्रस्तुतिः।
2) प्रशस्तसंगठनम्।
3) स्पष्ट-उद्देश्यम्।
4) व्याकरणिक-शुद्धता।
Question 23: एतत्सिद्धान्तस्य प्रयोगः छात्रान् सामान्यशब्दान् शिक्षणे सहायतां करोति तथा छात्रान् शब्दानां विभिन्नश्रेणीभिः योजने सहायतां करोति- — CTET Paper 1 (12 Jan, 2022)
1) छात्रैः शब्दानां उदाहरणानां श्रवणं कर्त्तव्यम् तथा भाषा संरचना ज्ञातव्या।
2) शब्दावली तथा व्याकरणविकासः परस्परं विनिमयात्मके प्रक्रियेः स्तः।
3) छात्राः शब्दान् सार्थकसन्दर्भेषु सुष्ठु अधिगच्छन्ति।
4) उदासीनप्रकरणानां तुलनायां परस्परं सम्पर्कात्मकं तथा प्रतिक्रियात्मकं सन्दर्भे भाषाधिगमं प्रोन्नयतः।
Question 24: छात्रेषु किं सम्प्रेषणात्मकक्षमताम् उत्पादयति? — CTET Paper 1 (12 Jan, 2022)
1) संरचनात्मकप्रविधिः
2) निर्माणात्मकप्रविधिः
3) सम्प्रेषणात्मकप्रविधिः
4) योग्यताश्रित-प्रविधिः
Question 25: प्रामाणिकं मूल्याङ्कनम् अस्ति- — CTET Paper 1 (12 Jan, 2022)
1) स्तरीयपरीक्षा यस्यां उत्तरविकल्पाः सीमिताः सन्ति।
2) छात्राणां उपलब्धिं प्रत्यक्षरूपेण सम्बद्धां च ज्ञातुं विधिः यस्मिन् एतद् ज्ञायते यत् उद्देश्यानां पूर्तिः अभवत् न वा।
3) भागगृहीतृणां मूल्याङ्कनं यत्र कार्यक्रमस्य उपलब्धिं महत्त्वं दीयते।
4) अध्यापन-एककस्य समाप्तौ छात्रस्य मूल्याङ्कनम् यस्मिन् निर्धारित मान दण्डेन सह तुलना विधीयते।
Question 26: निर्माणात्मकं मूल्याङ्कनम् - — CTET Paper 1 (12 Jan, 2022)
1) विशेषकालावधौ छात्रस्य योग्यतानां निर्णयं करोति।
2) छात्रस्य प्रक्रियायां केन्द्रितं भवति।
3) शिक्षणसंस्थानेषु अधिकं मन्यते।
4) छात्राः यदैव त्रुटिं कुर्वन्ति तदैव तत्कालमेव शोधयति।
Question 27: स्वतन्त्रलेखनस्य प्रमुखलाभोऽयम् अस्ति- — CTET Paper 1 (12 Jan, 2022)
1) छात्राः एवं नानुभवन्ति यत् ते अधिकं लिखितुं पूर्णतया शुद्धं वा लिखितुं बाध्याः सन्ति।
2) छात्राः तेषां प्रथमभाषायाः लिखितभाषायाः वैशिष्ट्यं समावेष्टुं शक्नुवन्ति।
3) छात्राः रचनात्मकं लेखितुं स्वतन्त्राः सन्ति।
4) लेखितुं न लेखितुं वा स्वतन्त्राः सन्ति।
Question 28: कस्याम् अवस्थायां बालकाः मात्रासंयोजनं प्रारभन्ते? — CTET Paper 1 (12 Jan, 2022)
1) अस्पष्ट-अवस्थायाम्
2) एक-शब्द-अवस्थायाम्
3) दूरसंवेदी भाषा-अवस्था
4) भग्नाक्षर (babbling) अवस्था
Question 29: भाषाविषये छात्रस्य दुर्बलता निम्नपरीक्षणेन ज्ञातुं शक्यते? — CTET Paper 1 (12 Jan, 2022)
1) उपलब्धिपरीक्षा
2) निदानात्मकपरीक्षा
3) समेकितपरीक्षा (summative)
4) लिखितपरीक्षा
Question 30: निम्नलिखितेषु भाषाधिग्रहणे किं सर्वाधिकं महत्त्वपूर्णं कारकम् अस्ति? — CTET Paper 1 (12 Jan, 2022)
1) अध्यापकः
2) विद्यालयः
3) बहिः सम्पर्कस्य प्रकृतिः
4) अभिज्ञानम् (identity) तथा प्रेरणा (motivation)